CBSE Class 12 Sanskrit सङ्केताधारितम् अनुच्छेदलेखनम्

(क) चित्रमधिकृत्य
प्रियच्छात्रा:! भवद्भिः पूर्वम् दशमकक्षापर्यन्तं चित्रम् अधिकृत्य निर्दिष्टशब्दसूचीसाहाय्येन च चित्रवर्णनस्य अभ्यास: कृतः। तत्र केवलं पञ्चवाक्यानि एवं संस्कृतेन लिखित्वा कार्य पूर्णम् अभवत् किन्तु अधुना अनुबन्ध-लेखनम् अपेक्षितम्। अनुबन्ध: निबन्धस्य एव लघुरूप: भवति। अयम् अनुबन्ध: कथात्मकोऽपि भवितुम् शक्यते। अत्र अस्मिन् पुस्तके उदाहरणरूपेण दश अनुबन्धाः प्रस्तूयन्ते। तत्र चित्राणि अपि सन्ति, निर्दिष्टा शब्दसूची अपि वर्तते। अनुबन्धलेखने कल्पनायाः आश्रयः अनिवार्यः अस्ति। केवलं चित्रं दृष्ट्वा अथवा शब्दसूचीसहायतया एव अपि यदि सङ्केतः वर्तते तदापि भवन्तः कल्पनाया: प्रयोगेण अनुबन्धलेखने सिद्धा: भवन्तु इति अपेक्ष्यते।

प्रश्न:
अधोलिखितं चित्रम् दृष्ट्वा शब्द-सूचीसहायता अनुच्छेद लिखत
CBSE Class 12 Sanskrit सङ्केताधारितम् अनुच्छेदलेखनम् 1
शब्दसूची – समुद्रतटम्। कन्याकुमारी। स्वामिविवेकानन्दस्मारकम्। दर्शनीयम्। मण्डपम् नौकया प्राप्यम्। अतीव रम्यम् भव्यम्। ध्यानमण्डपम्। शिलाभि: निर्मितम्। शिलायाम् भगवद्ध्वज: विराजते। समुद्रे शिला: शोभन्ते। जनाः समुद्रे स्नानं कुर्वन्ति।
उत्तरम्:
अनुच्छेदः- भारते बहूनि दर्शनीयानि तीर्थस्थानानि सन्ति। दक्षिणदिशायाम् समुद्रमध्ये शिलाभि: निर्मितम् श्रीविवेकानन्द स्मारकम् तेषु अन्यतमम् अस्ति। पुरा स्वामी विवेकानन्द: समुद्र तीत्व अस्यामेव शिलायां ध्यानावस्थितः आसीत्। तदनु स: विदेशं गत्वा हिन्दूधर्मस्य संस्कृतेश्च प्रचार कर्तुम् निश्चयम् अकरोत्। स्वामी विवेकानन्द: लोक-कल्याणाय प्रवृत्त: आसीत्। अत: समुद्रस्य नातिदूरे शिलातले तस्य स्मारकम् विनिर्मितम्। एतत् भण्डपं नौकया प्राप्यं भवति। सम्पूर्ण भवनम् अतीव रम्यं त्र्यं च अस्ति। तत्र गत्वा चतुर्दिक्षु समुद्रतरङ्गा: कल्लोलं कुर्वन्ति। जनाः स्मारकम् अवतीर्य स्नानं कुर्वन्ति, पुष्पाणि गृहीत्वा पूजाकायं कुर्वन्ति। तत्र मध्ये ध्यानमण्डपम् अस्ति। एकस्मिन् भवने भगवद्ध्वजः विराजते। अस्माभिः एतत्स्मारकं प्राप्य स्वामिविवेकानन्द महाभागानां सन्देशा: ग्रहीतव्याः।

प्रश्न:
अधोलिखितं चित्रम् दृष्ट्वा शब्द-सूचीसहायता अनुच्छेद लिखते
CBSE Class 12 Sanskrit सङ्केताधारितम् अनुच्छेदलेखनम् 2
शब्दसूची – वसन्तस्य दृश्यम्। पुष्पाणाम् विकासः। सौरभाणां प्रसारः। वृक्षा: लता: पादपाः पुष्पिता:। कुसुमाकरः। विविधवर्णनं। पुष्पाणि। पुष्पेषु भ्रमराः। मधूनि पिबन्ति। पिक: कूजति। बालकाः। नदीतटे गायन्ति। अनुकुर्वन्ति। पल्लवाः। आमेषु मजर्यः। खगाः।
उत्तरम्:
अनुच्छेद : चित्रे वयं वसन्तस्य रम्यं मनोरम दृश्यम् अवलोकयाम:। वसन्त ऋतुराजः अस्ति। अयं कुसुमाकरः इति कथ्यते। सर्वत्र पुष्पाणां विकास:, सौरभाणां प्रसार:, भ्रमराणां गुञ्जनम् च अतीव आनन्दं यच्छन्ति। वने उपवने नानावर्णानि पुष्पाणि शोभन्ते। पुष्पाणाम् उपरि भ्रमरा: गुञ्जन्ति। ते च सानन्दं मधूनि पिबन्ति। मधुना मत्तः पिकः अपि मधुरं कूजति, बालकाः तस्य ध्वनिम् अनुकुर्वन्ति। जनाः उद्याने नदीतटेषु च प्रकृतिशोभा पश्यन्तः गायन्ति। इतस्तत: च भ्रमणं कुर्वन्ति। आम्रमञ्जरीषु मधुनः लोलुपा: चञ्चरीका: तदुपरि उड्डीयन्ते। सर्वतः पीत वसनं दधानः सर्षपः मनोरम दृश्यते। जनाः अपि पीतानि वस्त्राणि धारयन्ति। प्रकृति: नर्तकीव नृत्यन्ती प्रतीयते।

CBSE Class 12 Sanskrit सङ्केताधारितम् अनुच्छेदलेखनम् 3
शब्दसूची – महाभारत – प्रसङ्गः। यक्ष-युधिष्ठिर-वार्तालापः। तृषार्ताः पाण्डवाः। सरोवर। गतवन्तः। बकरूपधारी यक्षः। प्रश्नान् करोति। उत्तरं न दत्त्वा जलपानं चेष्टन्ते। चत्वार: चेतनारहिताः। अन्ते युधिष्ठिर: उत्तरं दत्वा यक्ष प्रसीदति।
उत्तरम्:
अनुच्छेद : प्रस्तुतं चित्रम् महाभारतस्य वनपर्वण: प्रसङ्गं स्मारयति। एकदा वने तृषार्ताः पाण्डवाः युधिष्ठिरस्य आज्ञया एकैकं कृत्वा जलस्य अन्वेषणे एकस्य सरोवरस्य तटम् अगच्छन्। तत्र स्थितस्य वृक्षस्य पृष्ठत: तै: बकरूपधारिण: यक्षस्य ध्वनिः श्रूयते-“तिष्ठ! मम प्रश्नानाम् उत्तरं दत्त्वैव जलं पिब। अन्यथा गतप्राणः भविष्यसि।” सहदेवः, नकुलः, भीमः अर्जुनः च यक्षस्य आज्ञां शृण्वन्ति किन्तु ते यक्षस्य प्रश्नानाम् उत्तरदानेन विना एवं जलं पातुं चेष्टन्ते। परिणामत: ते चत्वारः नि:संज्ञाः जाताः। यदा चतुषु भातृषु कोऽपि न अपरावर्तत, तदा युधिष्ठिरः स्वयं तत्र गतवान्। सः यक्षस्य प्रश्नानाम् सन्तोष-प्रदम् उत्तरं दत्तवान्। अनेन निजज्ञानबलात् बुद्धिकौशलात् च यक्ष प्रसन्नं कृत्वा युधिष्ठिरः स्वानुजान् अपि पुनर्जीवितान् अकरोत्। अयं यक्षयुधिष्ठिरसंवाद: अतीव ज्ञानप्रदः अस्ति।

CBSE Class 12 Sanskrit सङ्केताधारितम् अनुच्छेदलेखनम् 5
शब्दसूची – तपोवनम्। वृक्षस्य पृष्ठतः। राजा। चिन्तनमुद्रा। बालकः। सिंहस्य मुखम् उद्घाटयति। दन्तान् गणयति। द्वे महिले। एका वर्णयति। अन्या निवारयति सर्वदमन भरतः। दुष्यन्तस्य पुत्रः।
उत्तरम्:
अनुच्छेद : चित्रे वयम् तपोवनस्य दृश्यम् अवलोकयामः एकतः पुष्पिता: पादपाः तपोवनस्य रम्यतां वर्धयन्ति। वृक्षस्य पृष्ठतः आश्चर्यान्वितः राजा तिष्ठति। तस्य हस्ते खड्गः अस्ति। तत्र एकः अश्वोऽपि वर्तते। मध्ये एकः बालकः सिंहस्य मुखम् उद्घाटयति। द्वे महिले तं पश्यतः। बालकः सिंहशावकस्य दन्तान् गणयितुं चेष्टते। एका महिला तं निवारयति। सा कथयति-अलं क्रीडया, अन्यथा केसरिणी त्वां लङद्धयिष्यति। हठी वीरबालकः साहसं न परित्यजति। बालकं दृष्ट्वा राज्ञः हृदयं बालकं प्रति वात्सल्यभावेन पूर्णं भवति। वस्तुत: अयं बालकः तस्य एव पुत्रः अस्ति। बालकस्य नाम सर्वदमनः अस्ति। राज्ञः दुष्यन्तस्य अयं पुत्रः कालान्तरे ‘ भरतः’ इति नाम्ना चक्रवर्ती सम्राट् अभवत्।

CBSE Class 12 Sanskrit सङ्केताधारितम् अनुच्छेदलेखनम् 6
शब्दसूची – आदिकवि: वाल्मीकिः। तमसा नदी। व्याधेन। विद्धम्। क्रौञ्चम्। अपश्यत्। खगः अध: पतितः। क्रौञ्च्याः रोदनेन। द्रवीभूतम्। ऋषे: शोकः। श्लोकत्वम् आगतः। मा निषाद प्रतिष्ठां त्वमगम: शाश्वती समाः।
उत्तरम्:
अनुच्छेद : चित्रे वाल्मीके: रामायणस्य रचनायाः मूले वर्तमान: प्रसङ्गः चित्रितः। एकदा शिष्यैः सह स्नानार्थम् ऋषिः वाल्मीकिः तमसा नदीम् अगच्छत्। मार्गे सः व्याधेन विद्धम् एकं क्रौञ्चपक्षिण्म् अपश्यत्। व्याधः बाणेन काममोहितं कौञ्चयुग्मं प्राहरत्। तेन नरक्रौञ्चः भूमौ पतितः। सहचरस्य वियोगेन क्रौञ्ची व्याकुला अभवत्। सा च उच्चैः अरुदत्। तस्याः तीव्र रोदनं श्रुत्वा दु:खं च विलोक्य ऋषिः द्रवीभूतः। क्रौञ्च्याः क्रन्दनात् कवेः करुणाईहृदये जातः शोकः निम्नश्लोकत्वम् आगत :

मा निषाद प्रतिष्ठां त्वमगम: शाश्वतीः समाः।
यत्क्रौञ्चमिथुनादेकमवधी: काममोहितम्।।

अयं श्लोक: लोकसाहित्यस्य प्रथमा काव्यरचना। तदाधृत्य एव वाल्मीकिः आदिकविः तस्य च रचना आदिकाव्यं रामायणं रूपे प्रसिद्धे जाते।

CBSE Class 12 Sanskrit सङ्केताधारितम् अनुच्छेदलेखनम् 7
शब्दसूची – विपणेः दृश्यम्। फलविक्रेता। भूमौ। तस्य अग्रत: । विविधेषु पात्रेषु विविधानि फलानि। क्वचित्। कदलीफलानि, आम्रफलानि, हृढबीजफलानि फलविक्रेतुः हस्तयो:। फलानि। द्वौ बालकौ मूल्यं साधयत:। जना: रूप्यकाणि दत्त्वा फलानि क्रीणन्ति। कश्चित् नारङ्गफलानि इच्छति।
उत्तरम्:
अनुच्छेद : इदम् चित्रं फलविपणे: दृश्यम् उपस्थापयति। फलविक्रेता भूमौ तिष्ठति। तस्य अग्रे विविधपात्रेषु विविधानि फलानि सन्ति यथा-कदलीफलानि, नारङ्गफलानि, आम्रफलानि, दृढबीजफलानि इत्यादीनि। क्रेता प्रथम फलानि सम्यक्तया द्रष्टुम् इच्छति। विक्रेता हस्तयो: अभीष्टानि, फलानि गृहीत्वा दर्शयति। तदनन्तरं मूल्यं कथ्यते। विक्रेता कदाचित् अधिकं मूल्यम् वदति। क्रेता न्यूनमूल्येन क्रेतुम् इच्छति। अन्तत: तयोः मध्ये मूल्य स्थिरं भवति। क्रेता तदनु फलानां सङ्ख्यां वदति। सः स्वरुच्यनुसारं सुन्दराणि पक्वानि मधुराणि च फलानि अवचिनोति। मात्रानुसारं अवचितानां फलानां मूल्यं दत्त्वा क्रेता गच्छति, अन्ये क्रेतारः अपि तथैव कुर्वन्ति। तत्र क्वचित् बालिकाः, क्वचित् काऽपि महिला तिष्ठति। इत्थं फलानां क्रयणं विक्रयणं च नित्यं प्रचलतः।

CBSE Class 12 Sanskrit सङ्केताधारितम् अनुच्छेदलेखनम् 8
शब्दसूची – नगरे। नृपः। पशवः। वानरः। प्रियः। सुप्तः। अवीजयत्। मक्षिका। वारं वारं न्यवारयत्। पुन:। तत्रैव। अतिष्ठित्। खड्गप्रहार उड्डयते। नृपनासिका छिन्ना। मूर्खण मित्रता। नोचिता।
उत्तरम्:
अनुच्छेद : एकस्मिन् नगरे एकः नृपः आसीत्। तस्य भवने बहवः पशवः आसन्। ते तस्य सेवाम् अकुर्वन्। तेषु पशुषु एक: वानरः तस्य प्रियमित्रम् अभवत्। एकदा वानरः व्यजनेन नृपम् अवीजयत्। एका मक्षिका नृपस्य नासिकायाम् उपाविशत्। वानरः वारं वारं ताम् व्यजनेन निवारयति स्म। तथापि सा मक्षिका पुनः पुनः आगत्य तत्रैव अतिष्ठत्। तेन सः वानरः अतीव क्रुद्धः अभवत्। क्रोधेन विवेकः नश्यति। तां मक्षिकां हन्तुं वानरः तस्यामुपरि खड्ग प्रहारं कृतवान्। मक्षिका तु उड्डीय दूरम् अगच्छत् किन्तु नृपस्य नासिका छिन्ना अभवत्। सत्यमुक्तम्- मूर्खमित्रैः सह मित्रता नोचिता।

CBSE Class 12 Sanskrit सङ्केताधारितम् अनुच्छेदलेखनम् 9
शब्दसूची – चित्रे एका चतुर्दशवर्षीय बालकः। परितः केचन जनाः। तेषु भटै: बद्धः ग्रामाधिकारी। सः अधिकारी विधवां कारणं विना अपीडयत्। विधवा पृष्ठतः तिष्ठति। बद्धः पुरुषः बालकेन पृष्टम् उत्तरं न ददाति। बाल: अकथयत् ये जनान् पीडयन्ति ते मम शत्रवः। भो भटाः, इमं दण्डयत।
उत्तरम्:
अनुच्छेद :
चित्रे एक: उष्णीषवेष्टित: एकया अङ्गुल्या निर्दिशन् कोऽपि चतुर्दशवर्षीय बालकः शिलायाः उपरि उपविष्टः वर्तते। तस्य पृष्ठतः काचित् स्त्री असहाया इव करबद्धा तिष्ठति। बालकस्य समक्षे त्रिभिः भटै: बद्धः एकः ग्रामाधिकृत: दृश्यते। बद्धः पुरुषः एव तां विधवा स्त्री कारणं विना भृशम् अपीडयत्। सा स्त्री न्यायं वाञ्छति। बालकः भटानां स्वामी अस्ति। ग्रामाधिकृत: कुमारात् न बिभेति। कुमार: अपृच्छत्- भो:, किम् एतत् सत्यम् यत् त्वया असहाया स्त्री पीडिता। बद्धः पुरुषः तूष्णीं तिष्ठति। अन्ततोगत्वा कुमार: आदिशति- भो भटाः, इमं पुरुषं दण्डयत। ये जनान् पीडयन्ति ते मम शत्रवः। भटाः बालकस्य नीतिं प्रशंसन्ति, बद्धं पुरुषं दण्डयन्ति। धन्योऽयं नीतिमान् बालः!

CBSE Class 12 Sanskrit सङ्केताधारितम् अनुच्छेदलेखनम् 10
शब्दसूची – नद्याः दृश्यम्। मेघवर्षणम्। जलधारा: नदीं प्रति आगच्छन्ति। उपरि पर्वतीयभाग: वर्तते। तत्रापि जलबिन्दवः पतन्ति। नद्यः पवर्तेभ्यः एव प्रभवन्ति। ग्रीष्मे पर्वतोपरि स्थितं हिमम् प्रतीभूय जलरूपेण प्रवहति। नदीषु जनाः तरन्ति। तत्र मत्स्याः , मकराश्च अपि विद्यन्ते। नदीनां बहवः लाभाः।
उत्तरम्:
अनुच्छेद : इदं पर्वतीय-नद्याः दृश्यम् अस्ति। भारते बहवः गिरयः सन्ति। ते गिरयः मेधानां कलापं धृत्वा वृष्टिं सम्पादयन्ति। अनेकाः नद्यः प्रवहन्ति। शीतर्ती पर्वतोपरि पतितं हिमम् अपि ग्रीष्मकाले द्रवीभूय जलरूपेण प्रवहति। अनेकाः उपनद्यः महानदीं प्रविशन्ति। गङ्गा, यमुना, सरस्वती प्रभृतयः काश्चन अतीव प्रसिद्धा: नद्यः सन्ति। वर्षाकाले वृष्ट्या नद्या: जलेन कृषिक्षेत्राणि प्लावितानि सन्ति। कृषकाः कृषिकार्यं कृत्वा अन्नोत्पादनं कुर्वन्ति। नद्याः जलं प्रतिरुध्य सेतुं बद्धवा महाजलाशयान् निर्माय च जलसञ्चयः क्रियते। तेभ्य: जलाशयेभ्यः क्षेत्रेषु जलं प्रेष्यते। नद्यां बन्धं निर्माय विद्युत् उत्पाद्यते। एवं नदीनां बहवः लाभाः सन्ति।

CBSE Class 12 Sanskrit सङ्केताधारितम् अनुच्छेदलेखनम् 11
शब्दसूची – समवायो हि दुर्जयः। नीतिकथा। वृक्षे। चटका। प्रमत्त: गजः। चटकाया नीड भग्नम्। काष्ठकूट: खग: चटका दु:खं शृणोति। तां मणिकासमीपं नयति। तया: मण्डूक: मित्रम्। गजकर्णे मक्षिका शब्दं करोति। काष्ठकूट:
गजनयने स्फोटयति। अन्धः तृषार्त: गजः जलाशयं गत्वा गर्ते पतति।
उत्तरम्:
अनुच्छेद : अत्र चित्रे वृक्षे चटका दृश्यते। उन्मत्तेन गजेन तस्याः नीड त्रोटयित्वा तस्याः विशीर्णानि अण्डानि अधः पातितानि। चटका दु:खिता वर्तते। तस्य एव वृक्षस्य कोटरे काष्ठकूटः नाम खगः आसीत्। सः अपि चटकाया: दु:खेन दु:खितो भवति। काष्ठकूट: चटकां मक्षिकायाः समीपं नयति। ते सर्वे मिलित्वा मण्डूकस्य समीपं गच्छन्ति। तत्र ते गजस्य वधस्य उपायं कुर्वन्ति। प्रथमं मक्षिका गजस्य कर्णे शब्दं करोति। तेन गजस्य नयने निमीलिते भवतः। काष्ठकूट: चञ्च्वा गजनयने स्फोटयति। सम्प्रति अन्धः गजः जलाशयं गच्छति। मार्गे महान् गर्तः अस्ति। तदा मण्डूकः शब्दं करोति। तेन गजः गर्त जलाशयं मत्वा तस्मिन्नेव गर्ते पतति म्रियते च एवं सर्वे मिलित्वा कार्यं साधयन्ति। सत्युमुक्तम्- बहूनामप्यसाराणां समवायो हि दुर्जयः।

CBSE Class 12 Sanskrit सङ्केताधारितम् अनुच्छेदलेखनम् 12
शब्दसूची – नृपः रघुः। सैनिकाः। सुवर्णपात्राणि। वटुः। कौत्सः। निजपात्रे चतुर्दश-कोटी: स्वर्णमुद्रा: स्वीकरोति। रघुः सर्वं स्वर्णं दातुम् इच्छति किन्तु कौत्स: अधिकं न नयति।
उत्तरम्:
अनुच्छेदः- चित्रे वयं नृपं रघु पश्यामः। सः उभौ करौ प्रसार्य वटुकं कौत्सं कथयति यत् सुवर्णमुद्राभिः पूर्णानि अवशिष्टानि पात्राणि अपि स्वीकरोतु। किन्तु कौत्सः प्राक् चतुर्दशकोटी: स्वर्णमुद्राः स्वकरोति स्म। ततः अधिकाम् एकामपि सुवर्णमुद्रां नेतुं कौत्सः तत्परः न भवति। नृपः रघु: वारं वारं निवेदयति यत् एतत् सर्वं धनं तस्मै एव तेन कुबेरस्य भाण्डागारात् प्राप्तम्। वस्तुत: कौत्सस्य गुरुभक्त्या प्रभावितः रघुः कौत्सस्य कृते चतुर्दशकोटी: मुद्रा: प्राप्तुम् कुबेरम् आक्रान्तुं सङ्कल्पं कृतवान्। परन्तु महापराक्रमिण: महादानिनश्च रघो: आक्रमणात् पूर्वम् एव कुबेर: रात्रौ एव रघो: भाण्डागारे प्रभूतां स्वर्णवृष्टिम् अकरोत्। अन्ततोगत्वा रघुः चतुर्दशकोटी: स्वर्णमुद्राः एव प्रदाय वटुकौत्सं सत्कृतवान्। धन्या कौत्सस्य गुरुभक्तिः धन्या च रघोः उदारता।

(ख) निर्दिष्टशब्दसूची-साहाय्येन

प्रश्न:
अधोलिखितायाः शब्दसूचेः सहायतया निर्दिष्टविषये अनुबन्धम् लिखत।

1. मम प्रियः कविः ( भर्तृहरिः)
शब्दसूची – भर्तृहरिः। नीतिशतकम्। श्रृंगारशतकम्। वैराग्यशतकम्। विक्रमादित्यस्य अग्रजः। इत्सिंगस्य मतम्। गृहस्थ-वानप्रस्थयो: वारंवारं भ्रमणम्। सरसपदावली। नीति: वैराग्यम्। शृङ्गारादिविषयाः।।
उत्तरम्
मम प्रियः कविः (महाकविः भर्तृहरिः)

साहित्यसंगीतकलाविहीनः साक्षात्पशुपुच्छविषाणहीनः।
तृणं न खादन्नपि जीवमानस्तद्भागधेयं परमं पशूनाम्।।

महाकविः भर्तृहरिः संस्कृत-गीतिकाव्यस्य अद्वितीयः अलंकारः अस्ति। सः नीतिशतकम् श्रृंगारशतकम्, वैराग्यशतकम् च रचितवान्। सः महाराजविक्रमादित्यस्य अग्रजः आसीत् इति जनश्रुतिः अस्ति। तस्य स्थितिकालः षष्ठीशताब्द्याः उत्तरार्धः अस्ति । इत्सिग-मतानुसारं भर्तृहरिः बारम्बारं गृहस्थाश्रमस्य वानप्रस्थाश्रमस्य च मध्ये इतस्तत: पर्यभ्रमत्। शतकेषु वर्णिता: प्रसङ्गाः इत्सिंगमतस्य पुष्टिं कुर्वन्ति। एकैके शतके शतसंख्यकाः पद्याः सन्ति। नीतिशतके विद्या-वीरता-साहस-सत्संगति-मैत्री-परोपकार-धर्म-राजधर्म-इत्यादि वृत्तीनां सरसपदावल्यां वर्णनम् अस्ति। शृङ्गारशतके मधुरशैल्यां शृङ्गारस्य प्रमुख: विषयः वर्तते परं शनैः शनैः जीवनस्य अस्थिरतां प्रदर्य शान्तरसस्य तुलनायां तस्य तुच्छता प्रकटीक्रियते। वैराग्यशतके संसारस्य निस्सारताम्, मोक्षसोपानरूपस्य वैराग्यस्य च महत्त्वं प्रदर्यते।

2. सदाचारः
शब्दसूची – यद्यदाचरति श्रेष्ठः। संताम् आचरणम्। परमोधर्मः। शीलम्। शिष्टः। सभ्य: विनीत: नम्रः। मातृवत् परदारेषु। परद्रव्येषु लोष्ठवत्। श्रीराम: वाक्संयमी। मधुरभाषी।
उत्तरम्:
सदाचारः। यद्यदाचरति श्रेष्ठ स्वत्तदेवेतरो जनः।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते।।

श्रेष्ठजनानाम् आचरणम् एव सदाचार: शीलं वा कथ्यते सताम् आचारः सदाचारः। सत्पुरुषाः शास्त्रविहितं प्रशस्तं कार्य कुर्वते, इतरे जनाः तदेव अनुसरन्ति। ‘आचार: परमो धर्म:’ इति शास्त्रविहितं मतम्। शीलमेव जीवस्य परमं भूषणम् अस्ति। सदाचारी जन: शिष्टः, सभ्यः, विनीतः, विनम्रः च भवति। सः परदारेषु मातृवत् परधनेषु लोष्ठवत्, सर्वभूतेषु च आत्मवत् पश्यति। वाक्यसंयतो भूत्वा स कामक्रोधादीन् विकारान् निगृह्य कर्मसु प्रवर्तते। सदाचारस्य प्रतिपालनेन एव भगवान् श्रीरामः मर्यादापुरुषोत्तमः इति विश्रुतः भवति। वयं तादृशं सुशीलं कामयामहे येन जगत् विनम्र भवेत्।

3. श्रीमद्भगवद्गीता
शब्दसूची – महाभारते दीपस्तम्भः। श्रीकृष्णार्जुनसंवादः। नष्टो मोहः कर्मोपदेशः। निष्काम-कर्म। कर्मण्येवाधिकारस्ते। असक्तः कुरु कर्माणि सङ्ग त्यक्त्वा धनञ्जय। कृष्णस्य विराट् रूपं गीतायाम् उपलभ्यते।
उत्तरम्:
श्रीमद्भगवद्गीता
संस्कृतभाषायां महर्षिवेदव्यासेन विरचितस्य महाभारते श्रीमद्भगवद्गीता दीपस्तम्भ: इव स्थिता प्रतीयते। धर्मक्षेत्रे कुरुक्षेत्रे समवेतानां युयुत्सुकां पाण्डवानां कौरवाणां च मध्ये युद्धविरतम् अर्जुनम् अभिलक्ष्य भगवान् श्रीकृष्णस्य उपदेशेन तस्य मोहम् अनश्यत् तत्सर्वं श्रीमद्भगवद्गीतायां निबद्धम् अस्ति। श्रीमद्भगवद्गीतायां कर्मयोगस्य उपदेशः वर्तते। अर्जुनस्य विषाद: जीवन-संग्रामात् निवर्तकस्य जनसामान्यस्य विषाद: अस्ति। कृष्णस्य उपदेशैः, भगवत्कृपया, विराट्रूपदर्शनेन च सः विषाद नष्टः। सङ्ग्रहितो भूत्वा, कर्मफलेषु आसक्ति त्यक्त्वा कर्माणि कुर्वन् जनः मोक्षं प्राप्नोति, यथा गीतायाम् उपदिष्टम् अस्ति– असक्तः कुरु कर्माणि, सङ्गं त्यक्त्वा धनञ्जय।

4. कालिदासः
शब्दसूची – महाकविः। संस्कृतसाहित्यस्य सर्वश्रेष्ठः कविः। नाटककारः। महाकाव्यद्वयम्-रघुवंशम्, कुमारसम्भवम्। खण्डकाव्यद्वयम्-मेघदूतम्, ऋतुसंहारः। नाटकत्रयम्-अभिज्ञानशाकुन्तलम्, विक्रमोर्वशीयम्, मालविकाग्निमित्रम्। शृङ्गाररसस्य विशेष: परिपाकः। तपोवनवर्णनम्। भारतीयसंस्कृतेः तत्त्वानां चित्रणम्।।
उत्तरम्:
कालिदासः
महाकविः कालिदासः संस्कृतवाङ्मयस्य सर्वश्रेष्ठ: महाकविः अस्ति। असौ नाटककारः, महाकाव्यनिर्माता, गीतिकाव्यविर चयिता च आसीत्। कवेः नवनवोन्मेषशालिनी प्रतिभा सर्वतोमुखी आसीत्।। महाकविः कालिदासः विक्रमादित्यस्य नवरत्नेषु एकं रत्नम् आसीत् इति प्रसिद्धिः अस्ति। विक्रमस्य राजधानी उज्जयिनी आसीत्। महाकालस्य अस्याः नगर्याः भव्यं वर्णनं महाकविना स्वगीतिकाव्ये मेघदूते कृतं वर्तते। विक्रमादित्यस्य सभायां कालिदासस्य नाटकानां मञ्चनं सञ्जातम्। विक्रमोर्वशीयनाटके कालिदासः परोक्षतया विक्रमादित्यस्य कीर्तिम् चिरस्थायिनी चकार। विक्रमादित्यः खीष्टाब्दात् 57 वर्ष-पूर्वं उज्जयिन्यां नवसंवत्सरं प्रारब्धवान् इति प्रसिद्धिः वर्तते।।

5. दीपावली
शब्दसूची – कार्तिकमासस्य अमावस्यायाम्। सुधालिप्तानि भवनानि। भगवतः रामस्य गृहागमने दीपमालिकायाः परम्परा। शुद्धवस्त्रधाारणम्। मिष्टान्नसेवनम्। स्फोटकानाम् आस्फोटनम्। दीपानां, मोमवर्तिकानां प्रयोगः। होमादिकम्। लक्ष्मीपूजनम्। नव-बही-खाता-आरम्भः। सर्वातिशय: उत्साहः।
उत्तरम्
दीपावली भारतीयजनानां दीपावलि महोत्सवः तैः सर्वातिशयेन उत्साहन मान्यते। अयम् उत्सवः कार्तिकमासस्य अमावस्यायाः दिने भवति। श्रुयते यत् अस्मिन् दिने भगवान् श्रीरामचन्द्रः रावणं हत्वा अयोध्या निवृत्तः आसीत्। तदा च तस्य स्वागतं लोकैः रात्रौ दीपमालां कृत्वा कृतम् आसीत्। ततः प्रभृति जनाः तस्मिन् एव दिने प्रतिवर्ष स्वगृहेषु दीपमालां कुर्वन्ति। अस्मिन् अवसरे रात्रौ लक्ष्मीपूजनम् क्रियते। केचित् गृहेषु होमादि अपि सम्पाद्यते। वणिजः प्रायेण अस्मात् दिनात् एव ‘बही-खाता’ इत्यस्य आरम्भं कुर्वन्ति, अत: ते ‘बही-खाता’–पूजनं कुर्वन्ति। उद्योगिनः यन्त्रपूजनं कुर्वन्ति।

6. जननी जन्मभूमिश्च स्वर्गादपि गरीयसी
शब्दसूची – जननी यस्याः उदरात् (कुक्षेः) जन्म गृह्यते। सा पूज्यतमा। माता सन्ततेः आजीवनम् सुख-समृद्धेः चिन्तनम् करोति। स्वर्गसुखम् मातुः सुखात् अल्पतरम् इत्थम् स: देशः, तत् राष्ट्रम्, सः समाजः अपि मातृवत् भवति। जन्मभूमिः मातृभूमिः कथ्यते। रामेण उक्तम्-अपि सुवर्णमयी लङका न में लक्ष्मण रोचते। जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।
उत्तरम्
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी अस्याः सूक्ते: अयम् अर्थः यत् जननी अर्थात् माता, जन्मभूमिश्च अर्थात् स: देश: यत्र जनस्य जन्म भवति, एते उभे स्वर्गात् स्वर्गस्थानात् अपि गरीयस्यौ अर्थात् गुरुतरे स्तः। लोके इदं विश्रुतं भवति यत् स्वर्गलोके दु:खानां सर्वविधक्लेशानां च निराकरणं भवति, तत्र सर्वसुखानाम् उद्भवो भवति। दु:खस्थानं नरकं विहाय सर्वे जनाः सुखस्य परमोच्चं स्थानं स्वर्ग कामयन्ते। परम् अत्र अन्यत् एवं प्रतिपादितम्। स्वर्गतः अपि द्वे महत्तरे स्तः, एका जन्मदात्री जननी, अपरा च जन्मभूमिः एताभ्यां जनः स्वर्गादपि अधिकं सुखं प्राप्नोति इति अभिप्राय:।।

7. मम प्रियं पुस्तकम् ( उत्तररामचरितम्)
शब्दसूची – उत्तररामचरितम्। भवभूतेः नाटकम्। करुणरसप्राधान्यम्। पत्नी परित्यागस्य दोषः निराकृतः। छायासीता-अङ्कः । तमसा-मुरला इत्यादि नदीपात्राणि। वनदेवता। एकः रस: करुण: एव। भवभूति: तादृशः कविः यं ब्राह्मणं वाग् वश्येव अनुवर्तते। सप्त अङ्का । चित्रदर्शनम्। गर्भाङकनाटकम्।
उत्तरम्:
मम प्रियं पुस्तकम्
मम प्रियं पुस्तकम् उत्तररामचरितम् अस्ति। इदं नाटकं महाकवि-भवभूते: रचना अस्ति। अत्र करुणरसस्य प्राधान्यं वर्तते। ‘एको रसः करुण एव’ इति अत्र प्रतिपादितम् अन्यरसानां समावेशः करुणे एव भवति। भवभूतिः तादृशः कविः अस्ति यं ब्रह्माणमियं देवी वाग्वश्येवानुवर्तते। उत्तररामचरिते भाषा प्रौढता, औदार्यम् अर्थगौरवम्-सर्वे गुणाः समाविष्टाः सन्ति। अस्मिन् नाटके सप्त अङ्का सन्ति। तत्र चित्रदर्शनं, छायासीता, गर्भाकनाटकम् च इति दृश्यानि कवेः स्वकल्पनाप्रसूतानि सन्ति ।

8. महाकविः वाल्मीकिः
शब्दसूची – आदिकविः। रामायणस्य प्रणेताः आश्रमे सीतायाः, लव-कुशयोश्च परिपालकः। शस्त्रास्त्र-शिक्षणं, रामायण कथाज्ञानम् च लवकुशकृते अकारयत्। महर्षिः। भगवान्। रामायणम् उपजीव्यकाव्यम्। नीतीनां, मर्यादा पूर्णव्यवहारस्य आदर्शः।
उत्तरम्:
महाकविः वाल्मीकिः आदिकवि: वाल्मीकिः एवं मम प्रियः कविः अस्ति। तस्य जन्म नाम रत्नाकरः आसीत्। तपश्चर्यां कुर्वतः तस्य उपरि पुत्तिकाभिः मृद्-आवरणम् (वल्मीकम्) अकरोत्। ततः अयं लोके वाल्मीकिः इति विश्रुतः अभवत्। एकदा तमसातीरे परिभ्रमता अनेन व्याधेन विध्यमानम् क्रौञ्चमेकं दृष्टम्। तत् करुणं दृश्यं दृष्ट्वा सः निम्नपद्यमाध्यमेन व्याधं शापग्रस्तं कृतवान्

मा निषाद प्रतिष्ठां त्वमगम: शाश्वतीः समाः।
यत्क्रौञ्चमिथुनादेकमवधी: काममोहितम्।।

9. कोऽपि महापुरुषः ( श्री कृष्णः)
शब्दसूची – वसुदेवसुतः देवकीनन्दनः वासुदेवः श्रीकृष्णः मम आदर्शः। कारावासे जन्म। नन्दगृहे रक्षणम्। द्वैमातुरः। यशोधानन्दनः। असुरविनाशं। कंस-जरासन्ध-शिशुपालादीनां वधं। महाभारते। सारथिकार्यग्रहणं। न्यायपक्षस्य विजयः। मोहग्रस्ताय अर्जुनाय निष्कामकर्मोपदेशः। श्रीमद्भगवद्गीतायाः गायकः।
उत्तरम्:
कोऽपि महापुरुषः ( श्री कृष्णः) भगवान् श्रीकृष्णः षोडश-कला-सम्पूर्णः आसीत्। भीष्मपितामहः अपि तस्य महिमानम् अजानात्। युधिष्ठिरस्य राजसूययज्ञे श्रीकृष्णस्य एवं प्रथमपूजा सर्वैः स्वीकृता। शिशुपालः तस्य विराधम् अकरोत्। यदा तस्य विरोधस्य पराकाष्ठा जाता तदा श्रीकृष्णः तस्य शिरच्छेदनं कृतवान्। महाभारते पाण्डवानां विजयस्य एकमात्रं कारणम् श्रीकृष्णः एव आसीत्। सः कर्मयोगी आसीत्। सः जरासन्धस्य वधं कृत्वा तत्र बन्दीगृहे निर्दोषं स्थापितान् संख्यातीत् जनान्, तस्य अन्तः पुरे च स्थिताः महिलाश्च मुक्ताः कारयति स्म।

10. गणतन्त्र दिवसः
शब्दसूची – जनवरीमासस्य षड्विंशतितमे दिवसे। संविधानस्य आरम्भ दिवसः। 1950 तमे वर्षे। नवदिल्लयाम्। महान् |
संरम्भ: विविधाः दृश्यावल्याः। सैनिकै: राष्ट्रपति सम्माने। प्रणामाः। स्वतन्त्रतायाः आन्दोलनकाले लवपुरे 1924 तमे वर्षे रावीतटे नेहरूमहाभागैः ‘पूर्णस्वतन्त्रताप्राप्तिः’ इति स्वतन्त्रता-आन्दोलनस्य लक्ष्य निर्धारितम्। अस्माभिः संविधानस्य परिपालनार्थं सङ्कल्पः करणीयः।
उत्तरम्:
गणतन्त्रदिवस समारोहः
जनवरीमासस्य षड्-विंशति-तमे दिवसे भारते गणतन्त्रदिवसः प्रतिवर्ष सम्पद्यते। अस्य दिवसस्य इव अस्याः तिथेः अपि महत्त्वं वर्तते। स्वतन्त्रतायाः आन्दोलनकाले 1929 मते ईसवीये वर्षे लवपुरे जवाहरलालनेहरूमहोदयस्य सभापतित्वे कांग्रेसदलस्य अधिवेशने जनवरीमासस्य 26 तमे दिवसे ‘पूर्णस्वतन्त्रताप्राप्तिः एव अस्माकं लक्ष्यम् अस्ति, इति घोषणा सञ्जाता। अतः सः एव दिवस: संविधानस्य अपि आरम्भदिवसः स्वीकृतः नेतृभिः।

11. होलिका-महोत्सवः
शब्दसूची – फाल्गुनमासस्य पूर्णिमायाम्। ‘होली’ इति नाम्ना प्रसिद्धम्। द्विदिनात्मकः महोत्सवः प्रथमदिने होलिका-पूजन | दहनं च। द्वितीयदिने परस्परं गुलाल, रागम् आदाय अन्योन्यमुखानि कपोलानि लिम्पन्ति। पिचकारी-माध्यमेन रागोऽपि क्षिप्यते। जनाः विविधाः विनोदपूर्णाः संगीतमयाः च चेष्टाः कुर्वन्ति।
उत्तरम्:
होलिकोत्सवः
होलिका महोत्सवः फाल्गुनमासस्य पूर्णिमायां समायोज्यते। इदं पर्व ‘होली’ इत्यभिधानेन प्रसिद्धमस्ति। परम्परया अयमुत्सवः वसन्तोत्सवः अपि कथ्यते यतः इदं पर्व अपि वसन्तर्ती समायोज्यते। होलिकादहनं कृत्वा जनाः अग्रिमे दिने परस्परं ‘गुलाल’ इति रागम् आदाय अन्योन्यमुखानि लिम्पन्ति, पिचकारी माध्यमेन द्रवं रागमपि क्षिपन्ति, विविधाश्च विनोदपूर्णाः चेष्टाः कुर्वन्ति, इत्यनेन रङ्गक्रीडां विधाय सायंकाले मिलित्वा मिष्टान्नसेवनमापि कुर्वन्ति।

NCERT Solutions for Class 12 Sanskrit